हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Navagraha Beeja Mantras – नवग्रह बीज मन्त्राः


– सङ्ख्या पाठः –
रवेः सप्तसहस्राणि चन्द्रस्यैकादश स्मृताः ।
भौमे दशसहस्राणि बुधे चाष्टसहस्रकम् ।
एकोनविंशतिर्जीवे भृगोर्नृपसहस्रकम् ।
त्रयोविंशतिः सौरेश्च राहोरष्टादश स्मृताः ।
केतोः सप्तसहस्राणि जपसङ्ख्याः प्रकीर्तिताः ॥ १

रवि – ७०००
चन्द्र – ११०००
भौम – १००००
बुध – ८०००
बृहस्पति – १९०००
शुक्र – १६०००
शनि – २३०००
राहु – १८०००
केतु – ७०००

– सङ्ख्या निर्णयं –
कल्पोक्तैव कृते सङ्ख्या त्रेतायां द्विगुणा भवेत् ।
द्वापरे त्रिगुणा प्रोक्ता कलौ सङ्ख्या चतुर्गुणा ॥ २
इति वैशम्पायनसंहितावचनम् ।

– जपपद्धतिः –

आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम ______ ग्रहपीडापरिहारार्थं ______ ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथासङ्ख्यकं ______ ग्रहस्य बीजमन्त्र जपं करिष्ये ॥

– सूर्यः –

ध्यानम् –
पद्मासनः पद्मकरो द्विबाहुः
पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी
मयि प्रसादं विदधातु देवः ॥

लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
हं आकाशात्मने पुष्पं परिकल्पयामि ।
यं वाय्वात्मने धूपं परिकल्पयामि ।
रं अग्न्यात्मने दीपं परिकल्पयामि ।
वं अमृतात्मने नैवेद्यं परिकल्पयामि ।
सं सर्वात्मने सर्वोपचारान् परिकल्पयामि ।

बीजमन्त्रः –
ओं ह्रां ह्रीं ह्रौं सः सूर्याय नमः ।

– चन्द्रः –

ध्यानम् –
श्वेताम्बरः श्वेतवपुः किरीटी
श्वेतद्युतिर्दण्डधरो द्विबाहुः ।
चन्द्रोऽमृतात्मा वरदः किरीटी
श्रेयांसि मह्यं विदधातु देवः ॥

बीजमन्त्रः –
ओं श्रां श्रीं श्रौं सः चन्द्राय नमः ।

– भौमः –

ध्यानम् –
रक्ताम्बरो रक्तवपुः किरीटी
चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली
सदा मम स्याद्वरदः प्रशान्तः ॥

बीजमन्त्रः –
ओं क्रां क्रीं क्रौं सः भौमाय नमः ।

– बुधः –

ध्यानम् –
पीताम्बरः पीतवपुः किरीटी
चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत् सोमसुतः सु मेरुः
सिंहाधिरूढो वरदो बुधोऽस्तु ॥

बीजमन्त्रः –
ओं ब्रां ब्रीं ब्रौं सः बुधाय नमः ।

– बृहस्पतिः –

ध्यानम् –
स्वर्णाम्बरः स्वर्णवपुः किरीटी
चतुर्भुजो देवगुरुः प्रशान्तः ।
दधाति दण्डं च कमण्डलुं च
तथाऽक्षसूत्रं वरदोऽस्तु मह्यम् ॥

बीजमन्त्रः –
ओं ग्रां ग्रीं ग्रौं सः गुरवे नमः ।

– शुक्रः –

ध्यानम् –
श्वेताम्बरः श्वेतवपुः किरीटी
चतुर्भुजो दैत्यगुरुः प्रशान्तः ।
तथासि दण्डं च कमण्डलुं च
तथाक्षसूत्राद्वरदोऽस्तु मह्यम् ॥

बीजमन्त्रः –
ओं द्रां द्रीं द्रौं सः शुक्राय नमः ।

– शनिः –

ध्यानम् –
नीलद्युतिः नीलवपुः किरीटी
गृध्रस्थितश्चापकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः
सदास्तु मह्यं वरमन्दगामी ॥

बीजमन्त्रः –
ओं प्रां प्रीं प्रौं सः शनैश्चराय नमः ।

– राहुः –

ध्यानम् –
नीलाम्बरो नीलवपुः किरीटी
करालवक्त्रः करवालशूली ।
चतुर्भुजश्चर्मधरश्च राहुः
सिंहाधिरूढो वरदोऽस्तु मह्यम् ॥

बीजमन्त्रः –
ओं भ्रां भ्रीं भ्रौं सः राहवे नमः ।

– केतुः –

ध्यानम् –
धूम्रो द्विबाहुर्वरदो गदाभृ-
-द्गृध्रासनस्थो विकृताननश्च ।
किरीटकेयूरविभूषिताङ्गः
सदास्तु मे केतुगणः प्रशान्तः ॥

बीजमन्त्रः –
ओं स्रां स्रीं स्रौं सः केतवे नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत ____ ग्रहस्य मन्त्रजपेन ____ सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


Navagraha Stotras – नवग्रह स्तोत्राणि

Navagraha Stotras – नवग्रह स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.